LYRIC

ढुण्ढिस्वरूप वर्णन स्तोत्रम् – जैमिनिरुवाच Dhundhiswarup Varna Stotram

न वक्तुं शक्त्ये राजन् केनापि तत्स्वरूपकम् ।
नोपाधिना युतं ढुण्ढिं वदामि श्रृणु तत्वतः ॥१॥

अहं पुरा सुशान्त्यर्थं व्यासस्य शरणं गतः ।
मह्यं सङ्कथितं तेन साक्षान्नारायणेन च ॥२॥

तदेव त्वां वदिष्यामि स्वशिष्यं च निबोध मे ।
यदि तं भजसि ह्यद्य सर्वसिद्धिप्रदायकम् ॥३॥

देहदेहिमयं सर्वं गकाराक्षरवाचकम् ।
संयोगायोगरूपं यद् ब्रह्म णकारवाचकम् ॥४॥

तयोः स्वामी गणेशश्च पश्य वेदे महामते ।
चित्ते निवासकत्वाद्वे चिन्तामणिः स कथ्यते ॥५॥

चित्तरूपा स्वयं बुद्धिर्भ्रान्तिरूपा महीपते ।
सिद्धिस्तत्र तयोर्योगे प्रलभ्येत् तयोः पतिः ॥६॥

द्विज उवाच ।

श्रृणु राजन् गणेशस्य स्वरूपं योगदं परम् ।
भुक्तिमुक्तिप्रदं पूर्णं धारितं चेन्नरेण वै ॥७॥

चित्ते चिन्तामणिः साक्षात्पञ्चचित्तप्रचालकः ।
पञ्चवृत्तिनिरोधेन प्राप्यते योगसेवया ॥८॥

असम्प्रज्ञातसंस्थश्च गजशब्दो महामते ।
तदेव मस्तकं यस्य देहः सर्वात्मकोऽभवत् ॥९॥

भ्रान्तिरूपा महामाया सिद्धिर्वामाङ्गसंश्रिता ।
भ्रान्तिधारकरूपा सा बुद्धिश्च दक्षिणाङ्गके ॥१०॥

तयोः स्वामि गणेशश्च मायाभ्यां खेलते सदा ।
सम्भजस्व विधानेन तदा संलभसे नृप ॥११॥

इति ढुण्ढिस्वरूपवर्णनस्तोत्रं समाप्तम् ।


Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT