LYRIC

ऋणहर गणेश स्तोत्रम् Rinhara Ganesh Stotram

 

सिंदूरवर्णं द्विभुजं गणेशं लंबोदरं पद्मदले निविष्टम् ।
ब्रह्मादिदेवैः परिसेव्यमानं सिद्धैर्युतं तं प्रणमामि देवम् ॥१॥

सृष्ट्यादौ ब्रह्मणासम्यक् पूजितः फलसिद्धये ।
सदैव पार्वतीपुत्रःऋणनाशं करोतु मे ॥२॥

त्रिपुरस्य वधात्पूर्वं शंभुना सम्यगर्चितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥३॥

हिरण्यकश्यप्वादीनां वधार्थे विष्णुनाऽर्चितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥४॥

महिषस्य वधे देव्या गणनाथः प्रपूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥५॥

तारकस्य वधात्पूर्वं कुमारेण प्रपूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥६॥

भास्करेण गणेशो हि पूजितश्छविसिद्धये ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥७॥

शशिना कान्तिवृध्यर्थं पूजितो गणनायकः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥८॥

पालनाय च तपसां विश्वामित्रेण पूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥९॥

इदं तु ऋणहरं स्तोत्रं तीव्रदारिद्‌र्यनाशनम् ।
एकवारं पठेन्नित्यं वर्षमेकं समाहितः ॥१०॥

दारिद्‌र्यं दारुणं त्यक्त्वा कुबेरसमतां व्रजेत् ॥११॥


Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT

VIDEO