LYRIC

विज्ञान गणराज स्तोत्रम् Vigyan Ganraj Stotram

अत्रिरुवाच ।

श्रृणु पुत्र प्रवक्ष्यामि शान्तियोगं सनातनम् ।
ब्रह्मणा कथितं ह्येतद्येन शान्तोऽहमञ्जसा ॥१॥

अस्माकं कुलदेवत्वं प्राप्तो गणपतिःप्रभुः ।
स वै देवाधिदेवानां कुलदेवः प्रकीर्तितः ॥२॥

शान्तियोगस्वरूपं तं जानीहि त्वं महामते ।
भजस्व सुप्रयत्नेन तदा शान्तिमवाप्स्यसि ॥३॥

गणेशात्सर्वमुत्पन्नं तेन संस्थापितं सुत ।
तस्याराधनमात्रेण कृतकृत्याः शिवादयः ॥४॥

नामरूपात्मकं सर्वं जगद् ब्रह्म प्रकथ्यते ।
तदेव शक्तिरूपाख्यं ब्रह्मासद्रूपकं परम् ॥५॥

तत्रामृतमयं भानुमात्माकारेण संस्थितम् ।
सद्रूपं तं विजानीयाद् ब्रह्म वेदे प्रकीर्तितम् ॥६॥

तयोरभेदतो ब्रह्म समं सर्वत्र संस्थितम् ।
सदसन्मयगं विष्णुं जानीहि वेदवादतः ॥७॥

तेभ्यो विलक्षणस्तुर्या नेतिरूपः प्रकीर्तितः ।
निर्मोहः शिवसञ्ज्ञश्च स्वाधीनं ब्रह्म तद्बुधैः ॥८॥

चतुर्णां ब्रह्मसंयोगे स्वानन्दः कथ्यते बुधैः ।
स वै मायामयः साक्षाद्गुणेशो वेदवादिभिः ॥९॥

अन्तर्बाह्याः क्रियाः सर्वा ब्रह्माकारः प्रदृश्यते ।
कर्मयोगः स विज्ञेयः संयोगः कर्मणां सुत ॥१०॥

ज्ञानात्मचक्षुषा ज्ञानं यद्यद्भवति योगिनाम् ।
तेषामभेदको योगो ज्ञानयोगः प्रकीर्तितः ॥११॥

ज्ञानानां कर्मणाम् चैव भेदे योगः समात्मकः ।
आनन्दात्मकरूपोऽयं द्वैधनाशे स प्राप्यते ॥१२॥

स्वेच्छया कर्मयोगश्च धृतो येन महात्मना ।
स्वेच्छया ज्ञानयोगश्च स्वेच्छयानन्दयोगकः ॥१३॥

स्वेच्छया स त्रिभिर्हिनः सहजाख्यः प्रकथ्यते ।
सदा स्वाधीनरूपश्च स्वेच्छया क्रीडते स्वयम् ॥१४॥

ब्रह्मभूतात्मको योगः स्वानन्दाख्यः प्रकीर्तितः ।
तत्र स्वाधीनता पुत्र पराधीना त्रिधा कृता ॥१५॥

ब्रह्मणि ब्रह्मभूतस्य स्वतः परत एव च ।
उत्थानं नास्ति संयोगात्स्वस्वरूपिणि योगिनः ॥१६॥

स्वानन्दे सुतसंयोगो जगतां ब्रह्मणां भवेत् ।
सर्वाभेदेन योगोऽयं तस्मान्मायासमन्वितः ॥१७॥

अयोगात्मकयोगश्च सदा संयोगवर्जितः ।
जगतां ब्रह्मणां तत्र प्रवेशोऽतो न विद्यते ॥१८॥

सदा निर्मायिको योगः स्वसंवेद्यविवर्जितः ।
स्वकीयाभेदहीनत्वान्निवृत्तिर्योगिभिर्धृता ॥१९॥

ब्रह्म ब्रह्माणि संस्थं यन्नागतं न गतं पुनः ।
स्वानन्दनाशतस्तुभ्यं ब्रह्मभूतमयोगकम् ॥२०॥

ब्रह्मस्वानन्दवासी स गणेशः कथ्यते बुधैः ।
स्वानन्दात्मात्मकः प्रोक्तो वेदेषु वेदवादिभिः ॥२१॥

क्रीडात्मको गणेशानः स्वानन्दः परिकीर्तितः ।
संयोगात्मकरूपेण स्वस्वरूपेण तिष्ठति ॥२२॥

क्रीडाहीनो गणेशानो योगरूपः प्रकीर्तितः ।
निरानन्दात्मकत्वेन सदा ब्रह्मणि संस्थितः ॥२३॥

संयोगायोगयोगेन तयोर्नाशे गणेश्वरः ।
शान्तियोगात्मकः प्रोक्तो योगिभिर्योगसेवया ॥२४॥

पूर्णयोगात्मकस्तत्र गणेशः परिकीर्तितः ।
मायायुक्तविहीनत्वं भ्रान्तिमात्रं प्रकीर्तितम् ॥२५॥

पञ्चचित्तस्वरूपां त्वं बुद्धिं जानीहि पुत्रक ।
तत्र मोहकरी सिद्धिर्भ्रान्तिदा मोहरूपिणी ॥२६॥

धर्मार्थकाममोक्षाणां सिद्धिर्भिन्ना प्रदृश्यते ।
ब्रह्मभूतमयी सिद्धिः कथिता योगिभिस्तथा ॥२७॥

पञ्चधा चित्तवृत्तिर्या तत्र यद्बिम्बितं सुत ।
तदेव गणराजस्य रूपं बिम्बात्मकं परम् ॥२८॥

धर्मार्थकाममोक्षेषु ब्रह्मभूतेषु यत्स्मृतम् ।
ऐश्वर्यं मोहदं जन्तुर्भ्रमति यत्र लालसः ॥२९॥

पञ्चैश्वर्येषु यद्बिम्बं तदेव गणपस्य च ।
जीवं जानीहि पुत्र त्वं शान्तियोगस्य सेवया ॥३०॥

पञ्चचित्तप्रणाशे वै पञ्चैश्वर्ये लयं गतः ।
अधुना गणराजस्त्वं भविताऽसि न संशयः ॥३१॥

त्यजावधूतमार्गं त्वं भाववधूतमुख्यकः ।
अवधूय महच्चित्तं महदैश्वर्यमादरात् ॥३२॥

सदा शान्तिं भजस्व त्वं योगेन दत्त सत्वरम् ।
ददामि ते महामन्त्रं गणेशस्य विधानतः ॥३३॥

तत एकाक्षरं मन्त्रं ददौ पुत्राय भावतः ।
अत्रिर्योगविदां श्रेष्ठस्तं प्रणम्य ययावजः ॥३४॥

साक्षाद्विष्णुस्वरूपश्च दत्तो योगविदांवरः ।
गङ्गाया दक्षिणे तीरे पूजयामास विग़्ह्नपम् ॥३५॥

त्यक्त्वा भूमिस्वरूपं स शान्तिमास्थाय योगवित् ।
अभजत्तं तु भावेन गणपं हृदि चिन्तयन् ॥३६॥

महायोगी स्वयं दत्तो वर्षेणैकेन शौनक ।
शान्तिं प्राप्तो विशेषेण गाणपत्यो बभूव ह ॥३७॥

तं द्रष्टुं गणपस्तत्र ययौ भक्तं निजेच्छया ।
भक्तवात्सल्यभावेन दत्ताश्रमसुशान्तिदः ॥३८॥

तं दृष्ट्वा सहसोत्थाय प्रणनाम कृताञ्जलिः ।
तुष्टाव सुस्थिरो भूत्वा विघ्नेशं कुलदैवतम् ॥३९॥

दत्त उवाच ।

नमो गणपते तुभ्यं नमो योगस्वरूपिणे ।
योगिभ्यो योगदात्रे च शान्तियोगात्मने नमः ॥४०॥

सिद्धिबुद्धिपते तुभ्यं पञ्चचित्तप्रधारकम् ।
नानाविहारशीलाय गणेशाय नमो नमः ॥४१॥

सिद्धिदात्रे समस्तेभ्यो नानैश्वर्यप्रधारिणे ।
मोहहन्त्रे मोहकर्त्रे हेरम्बाय नमो नमः ॥४२॥

स्वानन्दवासिने तुभ्यं संयोगाभेदधारिणे ।
नानामायाविहाराय विघ्नेशाय नमो नमः ॥४३॥

साङ्ख्याय ब्रह्मनिष्ठाय बोधहीनाय धीमते ।
परतोत्थानरूपाय विदेहाय नमो नमः ॥४४॥

बोधाय सर्वरूपाय देहदेहिमयाय च ।
स्वत उत्थानरूपाय प्रकृतेर्लय ते नमः ॥४५॥

सोऽहङ्काराय देवाय जगदीशाय ते नमः ।
महते बिन्दुरूपाय जगद्रूपाय ते नमः ॥४६॥

नादात्मकगुणेशाय नानावेषप्रधारिणे ।
ब्रह्मणे सृष्टिकर्त्रे च पितामह नमोऽस्तु ते ॥४७॥

हरये पालकायैव नानादेहधराय च ।
संहर्त्रे शङ्करायैव कर्माकाराय भानवे ॥४८॥

शक्तये च क्रियामूर्ते देवमानवरूपिणे ।
नागासुरमयायैव ढुण्ढिराजाय ते नमः ॥४९॥

स्थावराय नमस्तुभ्यं जङ्गमाय नमो नमः ।
जगद्रूपाय देवाय ब्रह्मणे ते नमो नमः ॥५०॥

किं स्तौमि त्वां गणाधीश योगाकारेण संस्थितम् ।
वेदादयः समर्था न त्वामतः प्रणमाम्यहम् ॥५१॥

धन्यो देहो मदीयोऽद्य पितरौ कुलमेव च ।
विद्या योगस्तपश्चैव त्वदंग़्ह्रियुगदर्शनात् ॥५२॥

इत्युक्त्वा भक्तिभावेन परिप्लुतो महामुनिः ।
ननर्त हृष्टरोमाऽसौ आनन्दाश्रूः सृजन्मुहुः ॥५३॥

ततस्तं स्वकरे धृत्वा गणनाथः प्रसस्वजे ।
उवाच योगिनं पूर्णैर्वचनं परमाद्भुतम् ॥५४॥

गणेश उवाच ।

धन्योऽसि दत्त योगीन्द्रो जातोऽसि मदनुग्रहात् ।
शान्तिं लभसि पूर्णां त्वमचलां मयि सर्वदा ॥५५॥

कदापि ते न भेदो मे भविष्यति महामुने ।
त्वत्प्रीतिसम्प्रवृद्ध्यर्थमत्र स्थास्यामि निश्चलः ॥५६॥

गणेशज्ञानमाहात्म्यं त्वया ह्यत्रेर्मुखाच्छुतम् ।
साक्षात्कारकृतं तस्मादिदं विज्ञानक्षेत्रकम् ॥५७॥

विज्ञानगणपो दत्तनाम्ना ख्यातो भवाम्यहम् ।
दर्शनाच्छान्तिसन्दाता भविष्याम्यत्र मानद ॥५८॥

अत्र वासं प्रकुर्वन्ति मदर्थं भक्तिसंयुताः ।
शान्तियोगं सदा तेभ्यो दास्यामि ते स्वसन्निधौ ॥५९॥

इदं पुरा शिवेनैव ज्ञानं साक्षात्कृतं स्वयम् ।
विज्ञानेश्वरनामा मे कृतो मया स शङ्करः ॥६०॥

तस्यात्र सन्निधिं स्थित्वा त्वया तथा सुसाधितम् ।
अतः शङ्करमित्रत्वं प्राप्तोऽसि मदनुग्रहात् ॥६१॥

त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् ।
पठतां श्रृण्वतां नॄणां ब्रह्मीभूतकरं तथा ॥६२॥

धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ।
सर्वसिद्धिप्रदं चैव सर्वेभ्यो ज्ञानदायकम् ॥६३॥

इत्युक्त्वाऽन्तर्दधे तत्र गणेशो भक्तवत्सलः ।
दत्तः खिन्नश्च तं ध्यात्वा तस्थौ तत्र प्रजापते ॥६४॥

ततस्तत्कृपया तेन स्वात्मा तत्र समर्पितः ।
योगाभेदमयत्वेन जात आत्मनिवेदकः ॥६५॥

दत्तो भक्तो गणेशश्च स्वामी तस्येति नाशितम् ।
स्वामिनि सेवकः सोऽपि तदाकारेण संस्थितः ॥६६॥

इयं भक्तिर्गणेशस्यात्मनिवेदनरूपिणी ।
दत्तेन सा धृता मुख्या शान्तियोगमयत्वतः ॥६७॥

एतस्मिन्नन्तरे तत्र प्रकटोऽभूत्स्वयं शिवः ।
विज्ञानेश्वरनामासौ दत्तं तं परिषस्वजे ॥६८॥

अहो दत्त महाभाग मम मित्रत्वमागतः ।
अत्रैवाहं गणेशानं ध्यायामि योगसेवया ॥६९॥

ततो दत्तं पुरस्कृत्य शङ्करो ब्राह्मणैः सह ।
गणेशं स्थापयामास गङ्गाया दक्षिणे तटे ॥७०॥

विज्ञानगणराजेति नाम चक्रे महर्षिभिः ।
तदादिक्षेत्रविख्यातं बभूव गणपस्य तत् ॥७१॥

विज्ञाननामकं पुण्यं शान्तियोगफलप्रदम् ।
सर्वसिद्धिकरं क्षेत्रं यात्राकारि जनस्य च ॥७२॥

इति मुद्गलपुराणोक्तं विज्ञानगणराजस्तोत्रं समाप्तम् ।


Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT