LYRIC

एकदन्त शरणागति स्तोत्रम् Ekadanta Sharanagati Stotram

 

देवर्षय: ऊचु: ।

सदात्मरूपं सकलदिभूतममायिनं सोऽहमचिन्त्यबोधम् ॥
अनादिमध्यान्तविहीनमेकं तमेकदन्त शरणं व्रजाम: ॥१॥

अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् ॥
ह्रदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजाम: ॥२॥

समाधिसंस्थं हदि योगिनां यं प्रकाशरूपेण विभातमेतम् ॥
सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजाम: ॥३॥

स्वबिम्बभावेन विलासयुक्तां प्रत्यक्षमायां विविधस्वरूपाम् ॥
स्ववीर्यकं तत्र ददाति यो वै तमेकदन्तं शरणं व्रजाम: ॥४॥

त्वदीयवीर्येण समर्थभूतस्वमायया संरचितं च विश्वम् ॥
तुरीयकं ह्यात्मप्रतीतिसंज्ञं तमेकदन्तं शरणं व्रजाम: ॥५॥

त्वदीयसत्ताधरमेकदन्तं गुणेश्वरं यं गुणाबोधितारम् ॥
भजन्तमत्यन्तमजं त्रिसंस्थं तमेकदन्तं शरणं व्रजाम: ॥६॥

ततस्त्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितं जगद्वै ॥
समानरूपं ह्युभयत्रसंस्थं तमेकदन्तं शरणं व्रजाम: ॥७॥

तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभान्तम् ॥
अनेकरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजाम: ॥८॥

ततस्त्वया प्रेरितकेन सृष्टं बभूव सूक्ष्मं जगदेकसंस्थम् ॥
सुसात्त्विकं स्वप्रमनन्तमाद्यं तमेकदन्तं शरणं व्रजाम: ॥९॥

तदेव स्वप्रं तपसा गणेश सुसिद्धरूपं विविधं बभूव ॥
सदैकरूपं कृपया व तेऽद्य तमेकदन्तं शरणं व्रजाम: ॥१०॥

त्वदाज्ञया तेन त्वया हदिस्थं तथा सुसृष्टं जगदंशरूपम् ॥
विभिन्नजाग्रन्मयमप्रमेयं तभेकदन्तं शरणं व्रजाम: ॥११॥

तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपा स्मृतेन ॥
बभूव भिन्नं च सदैकरूपं तमेकदन्तं शरणं व्रजाम: ॥१२॥

सदेव सृष्ट्‍वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् ॥
धिय: प्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजाम: ॥१३॥

त्वदाज्ञया भान्ति ग्रहाश्च सर्वे प्रकाशरूपाणि विभान्ति खे वै ॥
भ्रमान्ति नित्यं स्वविहारकार्यास्तमेकदन्तं शरणं व्रजाम: ॥१४॥

त्वदाज्ञया सृष्टिकरो विधता त्वदाज्ञया पालक एक विष्णु: ॥
त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजाम: ॥१५॥

यदाज्ञया भूमिजले‍ऽत्र संस्थे यदाज्ञयाप: प्रवहन्ति नद्य: ॥
स्वतीर्थसंस्थश्च कृत: समुद्रस्तमेकदन्तं शरणं व्रजाम: ॥१६॥

यदाज्ञया देवगणा दिविस्था ददन्ति वै कर्मफलनि नित्यम् ॥
यदाज्ञया शैलगणा: स्थिरा वै तमेकदन्तं शरणं व्रजाम: ॥१७॥

यदाज्ञया शेषधराधरो वै यदाज्ञया मोहप्रदश्च काम: ॥
यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजाम: ॥१८॥

यदाज्ञया वाति विभाति वायुर्यदाज्ञयाग्निर्जठरादिसंस्थ: ॥
यदाज्ञयेदं सचराचरं च तमेकदन्तं शरणं व्रजाम: ॥१९॥

यदन्तरे संस्थितमेकदन्तस्तदाज्ञया सर्वमिदं विभाति ॥
अनन्तरूपं हदि बोधकं यस्तमेकदन्तं शरणं व्रजाम: ॥२०॥

सुयोगिनो योग बलेन साध्यं प्रकुर्वते क : स्तवनेने स्तौति ॥
अत: प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजाम: ॥२१॥

गृत्समद उवाच ॥

एवं स्तुत्वा गणेशानं देवा: समुनय: प्रभुम् ॥
तूष्णींभावं प्रप्रद्यैव ननृतुईर्षसंयुता: ॥२२॥

स तानुवाच प्रीतात्मा देवर्षीणां स्तंवेन वै ॥
एकदन्तो महाभागो देवर्षीन्भक्तवत्सल: ॥२३॥

एकदन्त उवाच ॥

स्तोत्रेपणाऽहं प्रसन्नोऽस्मि सुरा: सर्षिगणा: किल ॥
वरदोऽहं वृणुत वो दास्यामि मनसीप्सितम् ॥२४॥

भवत्कृतं मदीयं यत्स्तोत्रं प्रीतिप्रद्म च तत् ॥
भविषति न सन्देह: सर्वसिद्धिप्रदायकम् ॥२५॥

यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठत: ॥
पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकम् ॥२६॥

गजाश्वादिकमत्यन्तं राज्यभोगादिकं ध्रुवम् ॥
भुर्क्ति मुर्क्ति च योगं वै लभते शान्तिदायकम् ॥२७॥

मारणोच्चाटनादीनि राजयबन्धादिकं च यत् ॥
पठतां श्रृण्वतां नृणां भवेच्च बन्धहीनताम् ॥२८॥

एकविंशतिवारं य: श्र्लोकानेवैकविंशतीन् ॥
पठेच्च हदि मां स्मृत्वा दिनानि त्व्वेकविंशति: ॥२९॥

न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु वै भवेत् ॥
असाध्यं साधयेन्मर्त्य: सर्वत्र विजयी भवेत् ॥३०॥

नित्यं य: पठति स्तोत्रं ब्रह्मभूत: स वै नर: ॥
तस्य दर्शनत: सर्वे देवा: पूता भवन्ति च ॥३१॥

इति श्रीमुद्रलपुराणे एकदन्तशरणागतिस्तोत्रं सम्पूर्णम् ॥

 

 


Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT

VIDEO