LYRIC

रुद्राभिषेकस्तोत्रं महाभारतान्तर्गतम् Rudrabhisheka Stotra

 

कृष्णार्जुनावूचतुः ।

नमो भवाय शर्वाय रुद्राय वरदाय च ।
पशूनां पतये नित्यमुग्राय च कपर्दिने ॥1॥

महादेवाय भीमाय त्र्यम्बकाय च शान्तये ।
ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने ॥2॥

कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे ।
पिनाकिने हविष्याय सत्याय विभवे सदा ॥3॥

विलोहिताय ध्रूम्राय व्याधायानपराजिते ।
नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे ॥4॥

होत्रे पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे ।
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥5॥

वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे ।
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥6॥

विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ।
नमोनमस्ते सेव्याय भूतानां प्रभवे सदा ॥7॥

ब्रह्मवक्त्राय सर्वाय शंकराय शिवाय च ।
नमोस्तु वाचस्पतये प्रजानां पतये नमः ॥8॥

अभिगम्याय काम्याय स्तुत्यायार्याय सर्वदा ।
नमोऽस्तु देवदेवाय महाभूतधराय च ।

नमो विश्वस्य पतये पत्तीनां पतये नमः ॥
नमो विश्वस्य पतये महतां पतये नमः ।
नमः सहस्रशिरसे सहस्रभुजमृत्यवे॥9॥

सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे ।
नमो हिरण्यवर्णाय हिरण्यकवचाय च ।
भक्तानुकम्पिने नित्यं सिध्यतां नो वरः प्रभो ॥10॥

सञ्जय उवाच ।

एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः ।
प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ॥11॥

॥इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अर्जुनस्वप्ने अशीतितमोऽध्यायः ॥८०॥


Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT

VIDEO