LYRIC

योगशान्तिप्रदं गणाधीश स्तोत्रम् Yogashantipradam Ganadhisha Stotram

कर्दम उवाच ।

केनोपायेन भो वत्स योगशान्तिः प्रलभ्यते ।
तदर्थं पूजनीयं किं तद्वदस्व जनार्दन ॥१॥

कपिल उवाच ।

गणेशभजनं मुख्यं शान्तियोगप्रदं मतम् ।
योगाकारस्वरूपं तं ब्रह्मेशं भज मानद ॥२॥

सर्वादिः सर्वपूज्योऽयं सर्वाधारो महामुने ।
य आदिः प्रलयान्ते स तिष्ठति शास्त्रसंमतम् ॥३॥

ज्येष्ठराजं गणेशानं वेदेषु प्रवदन्ति तम् ।
गणाः समूहरूपाश्च तेषां स्वामी प्रकथ्यते ॥४॥

नानाजगत्स्वरूपं वैदेहरूपं कृतं मुने ।
नानाब्रह्ममयं तेन शिरः कृतं महात्मना ॥५॥

यस्माज्जातमिदं यत्र ह्यन्ते गच्छति महामते ।
तद्वेदे गजशब्दाख्यं शिरस्तेन गजाननः ॥६॥

त्रिविधं भेदयुक्तं यदखण्डं वै तुरीयकम् ।
तयोर्योगे गणेशोऽयं देहमस्तकयोर्गतः ॥७॥

चित्तं पञ्चविधं प्रोक्तं तत्र मोहश्च पञ्चधा ।
मोहरूपा महासिद्धिर्बुद्धिश्च मोहधारका ॥८॥

तयोः स्वामी गणाधीशश्चित्ते नित्यं प्रतिष्ठितः ।
चिन्तामणिर्महाभागो लभ्यते योगसेवया ॥९॥

पञ्चधा चित्तमुत्सृज्य तदैश्चर्यं तथैव च ।
योगः शान्तिमयः सद्यः प्राप्यते ब्रह्मणस्पतिः ॥१०॥

तस्मात्तं भज मन्त्रेणैकाक्षरेण महामुने ।
तेन तुष्टो गणेशानो योगं दास्यति शान्तिदम् ॥११॥

इति मुद्गलपुराणान्तर्गतं श्रीगणाधीशस्तोत्रं समाप्तम् ।


Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT

VIDEO