LYRIC

वक्रतुण्डस्तोत्रम् Vakratundastotram

 

ॐ ॐ ॐ काररूपं हिमकर रुचिरं यत्स्वरूपं तुरीयं त्रैगुण्यातीतलीलं कलयति मनसा तेज-सोदार वृत्ति: ॥
योगीन्द्रा ब्रह्मरन्घ्रे सहजगुण-मयं श्रीहरेन्द्रं स्वसंज्ञं गं गं गं गं गणेशं गज-मुखमनिशं व्यापकं चिन्तयन्ति ॥१॥

वं वं वं विघ्नराजं भजति निजभजे दक्षिणे पानिशुण्डं क्रों क्रों क्रों क्रोधमुद्रादलितरिपुकुलं कल्पवृक्षस्य मूले ॥
दं दं दं दन्तमेकं दधतमभिमुखं कामधेन्वा-दि सेव्यं धं धं धं धारयन्तं दधतमतिशयं सिद्धि-बुद्धिददंतम् ॥२॥

तुं तुं तुं तुंगरूपं गगनमुपगतं व्याप्नुवन्तं दिगन्तं क्लीं क्लीं क्लीं कामनाथं गलितमद्दलं लोलमत्तालिमालम् ॥
र्‍हीं र्‍हीं र्‍हीं-काररूपं सकलमुनिजनैर्ध्येयमुद्दिक्षुदण्डं श्रीं श्रीं श्रीं संश्रयन्तं निखिलनिधिफलं नौमि हेरम्बलम्बम्॥३॥

ग्लौं ग्लौं ग्लौं ग्लौंकारमाद्यं प्रणवमयमहा-मन्त्रमुक्तावलीनां सिद्धं विध्नेशबीजं शशिकर-सदृशं योगिनां ध्यानगम्यम् ॥
डां डां डां डाम-रूपं दलितभवभयं सूर्यकोटिप्रकाशं यं यं यं यक्षराजं जपति मुनिजनो बाह्यमाभ्यन्तरं च ॥४॥

त्यजति न सदनं किड्करा: सर्वलोका: पुत्रा: पौत्रा: प्रप्रौत्रा रणभूवि विजयो द्यूतवादे प्रवीणो यस्याशो विघ्नराजो निवसति ह्लदये भक्तिभाजां
हुं हुं हुं हेमवर्णं श्रुतिगणितगुणं शूर्पकर्णं कृपालुं ध्येयं यं सूर्यबिम्बे उरसि च विलसत्सर्पयज्ञोपवी-तम् ॥
स्वाहाहुंफट्‍ समेतैष्ठ ठ ठ ठ सहितै: पल्लवै: सेव्यमानि मन्त्राणां सप्तकोटिप्रगुणित-महिमध्यानमीशं प्रपद्ये ॥५॥

उरगभुजगबन्धं नाग-यज्ञोपवीतं मृदुलसरलनासं कुब्जहस्ताड्‍ घ्रिजानुम् विचितविविधरत्नं बद्धकाञ्चीनितन्बं सकल-भुवनबीजं वक्रतुण्डं प्रपद्ये ॥६॥

पूर्वं पीठं त्रिकोणं तदुपरि रुचिरं षड्‍दलं सूपपत्रं तस्योर्ध्दे बद्ध-रेखा वसुदलकमलं बाह्यतोऽधश्च तस्य ॥
मध्ये हुंकारबीजं तदनुभगवतो भगवतश्चांगष्ट्‍कं षडस्त्रे अष्टौशक्यत्यश्च सिद्धिर्बटुगणपते-र्वक्रतुण्डस्य यन्त्रम् ॥७॥

धर्माद्यष्टौप्रसिद्धा दिशि विदिशि गणा बाह्यतो लोकपालान् मध्येक्षेत्रा-धिनाथं मुनिजनतिलकं मन्त्रमुद्रापदेशम् ॥
एवं यो भक्तियुक्तो जपति गणपतिं पुष्पधूपाक्षताद्यै: । नैवेद्यैर्मोदकानां स्तुतिनटविलसद्‍गीतवादित्रनादै:॥८॥

राजानस्तस्य भृत्या इव युवतिकुलं दास-वंत्सर्वदाऽऽस्ते लक्ष्मी: सर्वाड्‍गयुक्तासं देव: ॥९॥
इति श्रीशड्कराचार्यविरचितं वक्रतुण्डस्तोत्रम् समाप्तम् ॥

 

 


Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT

VIDEO