LYRIC

विघ्नविनाशक स्तोत्रम् Vighnavinashaka Stotram

 

ईशानो ढुण्ढिराजो गणपतिरखिलाघौघनाश वरेण्यो देवानामग्रगण्य: सकलगुणनिधिर्योऽग्र- पूजाधिकारी ।
विद्याधीशो वलिष्ठ: षडरिविदलन: सिद्धिबुद्धिप्रदाता जीवानां मुक्तिहेतुर्जयति भवंहर: श्रीगुरु: सौख्यसिन्धु: ॥१॥

विघ्नान्हन्तीति योऽसौ श्रुतिषु निगदितो विघ्नहेतिप्रसिद्धो व्यक्तेवाऽव्यक्तरूपे प्रणवपुरयं ब्रह्मरूप: स्वमात्र: ।
यो व्यक्तो भक्तहेतुर्निरवधिरमलो निर्गुणो निष्कियोपि भक्तानां मुक्तिहेतौ विदलयति कृतं मायिकस्याद्बय: स: ॥२॥

सर्पोरज्जुर्हि यद्बन्न भुजग इति सा कथ्यते रज्जुसर्पे विश्वं ब्रह्मैव तद्वन्न च जगदिति तत्खल्विदं ब्रह्मवाक्ये ।
सत्ता सामान्यरूपात्कथितमपि च यो दृश्यरूपो न तादृक्‍ दृश्यं यद्बिघ्रकृत्स्यात्तदपनयति यो बोधतो विघ्रहाऽयम् ॥३॥

सर्वं ब्रह्मस्वरूपं परमपरयुतं विश्वमाभाति यच्च चैतन्यस्याद्‍द्वयत्वाद्‍ गदित इति च यो दृश्यरूपो‍ऽप्यरूप: ।
माया तत्सर्वकार्यं जडमिति कथितं यं विनाभावमेति सर्वत्रावस्थितत्वात्तदनुभव इति स्वादनाद्योऽद्बद: स: ॥४॥

भात्यस्त्यानन्दरूपोऽसदसुखजडतारूपदृश्येऽस्ति यो वै नित्यो नित्यादिकानां भावति किल तथा चेतन- श्चेतनानाम् ।
सर्वस्थैतस्य मायाकृतसुखमिह यत् प्रार्थ्यते तद्‍गणेशो यस्तं सर्वादिभूतं भजत जगति भो: सारभूतं वरेण्यम् ॥५॥

नित्यं यन्निर्विकारं निरतिशयसुखं ब्रह्मतन्मत्स्वरूपं ज्ञात्वा विश्वातिभूत: सकलविदलयन् स्वार्चिषा स्वस्थ आसे ।
माया तत्कार्यमेतत्स्पृशति न मयि वा दृश्यते नाऽविरासीन् मायाया: सर्वशक्ते: पर इति सततं य: स एवाद्वयोऽहम् ॥६॥

ब्रह्मा नन्दकरोऽयमात्ममतिद: श्रीढुण्ढिराजस्तवो विघ्राघौघघनप्रचण्डपवन: कामेभपञ्चानन: ।
मायाव्यालकुलप्रमत्तगरुडो मोहातवीहव्यवाड्‍ अज्ञानान्धनिवार णैकतरणिर्भेदाब्धिकुम्मोद्भव: ॥७॥

इति श्रीभगवता श्रीधरस्वामिना विरचिंत बिघ्रविनाशकस्तोत्रं सम्पूर्णम् ॥


Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT